Narayan Bhaje Lyrics

This is the prayer of lord Narayan, who is the protector of this universe, and in this song, Lord has been praised in his different forms, his better half that is mother goddess laxmi has also be portrayed along with him, its a serene experience after listening to this song! That’s why I am sharing this song lyrics and soon I will sing and upload my video on Ancientry youtube channel.

 

नारायणं भजे नारायणं – लक्ष्मी नारायणं भजे नारायणं (नारायणं)

बृन्दावनस्थितं नारायणं – देव बृन्द बहुस्तुतं नारायणं (नारायणं ) दिनकरकराम्बरं नारायणं – दिव्य कनक कङ्कणधरं नारायणं (नारायणं )

पंकजविलोचनं नारायणं – भक्त सङ्कट विमोचनं नारायणं (नारायणं ) करुणापयोनिधिं नारायणं – भव्य शरणागत निधिं नारायणं (नारायणं )

रक्षित जगत्त्रयं नारायणं – चक्र शिक्षितासुरचयं नारायणं (नारायणं ) अज्ञाननाशकं नारायणं – भक्त विज्ञानभासकं नारायणं (नारायणं )

श्रीवत्सभूषणं नारायणं – नन्द गोवत्सपोषणं नारायणं (नारायणं ….) शृङ्गारनायकं नारायणं – पद गंगाविधायकं नारायणं (नारायणं )

श्रीकण्ठसहचरं नारायणं – दिव्य वैकुण्ठ पुरचरं नारायणं (नारायणं ….) करिमुक्तिदायकं नारायणं – भद्र गिरिरत्न नायकं नारायणं (नारायणं ) 

Leave a comment

Your email address will not be published.


*